Original

कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् ।क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि ।धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ॥ १५ ॥

Segmented

कर्णम् दृष्ट्वा महा-इष्वासम् युद्धाय समवस्थितम् क्ष्वेडित-आस्फोटय्-रवैः सिंहनाद-रवैः अपि धनुः-शब्दैः च विविधैः कुरवः समपूजयन्

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
रवैः रव pos=n,g=m,c=3,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
अपि अपि pos=i
धनुः धनुस् pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan