Original

दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा ।अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥ २१ ॥

Segmented

दुःशासनः तु तत् श्रुत्वा दुर्योधन-वचः तदा अब्रवीत् कुरु-शार्दूलः दुर्योधनम् इदम् वचः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s