Original

समापेतुर्महावीर्या भीमप्रभृतयो रथाः ।तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ॥ ९ ॥

Segmented

समापेतुः महा-वीर्याः भीम-प्रभृतयः रथाः तान् प्रत्यगृह्णाद् अव्यग्रो द्रोणो ऽपि रथिनाम् वरः

Analysis

Word Lemma Parse
समापेतुः समापत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
भीम भीम pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s