Original

अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् ।विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ॥ १५ ॥

Segmented

अपरे अपि अपरान् जघ्नुः वारणाः पतितान् नरान् विषाणैः च अवनिम् गत्वा व्यभिन्दन् रथिनो बहून्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
अपि अपि pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
वारणाः वारण pos=n,g=m,c=1,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
नरान् नर pos=n,g=m,c=2,n=p
विषाणैः विषाण pos=n,g=n,c=3,n=p
pos=i
अवनिम् अवनि pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
व्यभिन्दन् विभिद् pos=v,p=3,n=p,l=lan
रथिनो रथिन् pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p