Original

सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् ।आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः ॥ ११ ॥

Segmented

सादिनः सादिनो अभ्यघ्नन् तथा एव रथिनो रथान् आसीत् शक्ति-असि-सम्पातः युद्धम् आसीत् परश्वधैः

Analysis

Word Lemma Parse
सादिनः सादिन् pos=n,g=m,c=1,n=p
सादिनो सादिन् pos=n,g=m,c=2,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
शक्ति शक्ति pos=n,comp=y
असि असि pos=n,comp=y
सम्पातः सम्पात pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
परश्वधैः परश्वध pos=n,g=m,c=3,n=p