Original

दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना ।जयाशां तव पुत्राणां संभग्नां शर्म वर्म च ॥ २ ॥

Segmented

दिव्यैः अस्त्रैः महा-इष्वासम् पातितम् सव्यसाचिना जय-आशाम् तव पुत्राणाम् संभग्नाम् शर्म वर्म च

Analysis

Word Lemma Parse
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
जय जय pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
संभग्नाम् सम्भञ्ज् pos=va,g=f,c=2,n=s,f=part
शर्म शर्मन् pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
pos=i