Original

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् ।प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः ॥ ६ ॥

Segmented

ततः पञ्चशतान् वीरान् गान्धारान् उद्यत-आयुधान् प्राहिणोत् मृत्यु-लोकाय क्रुद्धो बाणैः धनंजयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चशतान् पञ्चशत pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s