Original

पिता सुतं त्यजति सुहृद्वरं सुहृत्तथैव पुत्रः पितरं शरातुरः ।स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः ॥ ४१ ॥

Segmented

पिता सुतम् त्यजति सुहृद्-वरम् सुहृत् तथा एव पुत्रः पितरम् शर-आतुरः स्व-रक्षणे कृत-मतयः तदा जनास् त्यजन्ति वाहान् अपि पार्थ-पीडिताः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
सुहृद् सुहृद् pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रक्षणे रक्षण pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
मतयः मति pos=n,g=m,c=1,n=p
तदा तदा pos=i
जनास् जन pos=n,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
वाहान् वाह pos=n,g=m,c=2,n=p
अपि अपि pos=i
पार्थ पार्थ pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part