Original

द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः ।केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥ ३० ॥

Segmented

द्रोणम् एव अन्वपद्यन्त केचित् तत्र महा-रथाः केचिद् दुर्योधनम् राजन्न् अर्द्यमानाः किरीटिना

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s