Original

विधमेदभ्रजालानि यथा वायुः समन्ततः ।व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥ ७ ॥

Segmented

विधमेद् अभ्र-जालानि यथा वायुः समन्ततः व्यधमत् तानि अनीकानि तथा एव पवनात्मजः

Analysis

Word Lemma Parse
विधमेद् विधम् pos=v,p=3,n=s,l=vidhilin
अभ्र अभ्र pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
समन्ततः समन्ततः pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
तथा तथा pos=i
एव एव pos=i
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s