Original

प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च ।पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥ ३० ॥

Segmented

प्राग्ज्योतिष-पत्युः नागः संनिपत्य अपवृत्य च पार्श्वे दशार्ण-अधिपतेः भित्त्वा नागम् अपातयत्

Analysis

Word Lemma Parse
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
नागः नाग pos=n,g=m,c=1,n=s
संनिपत्य संनिपत् pos=vi
अपवृत्य अपवृत् pos=vi
pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
भित्त्वा भिद् pos=vi
नागम् नाग pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan