Original

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः ।चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥ २३ ॥

Segmented

ततो नकुल-दायादः त्रिभिः भल्लैः सु संशितैः चक्रे विबाहु-शिरसम् भूतकर्माणम् आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
नकुल नकुल pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
सु सु pos=i
संशितैः संशा pos=va,g=m,c=3,n=p,f=part
चक्रे कृ pos=v,p=3,n=s,l=lit
विबाहु विबाहु pos=a,comp=y
शिरसम् शिरस् pos=n,g=m,c=2,n=s
भूतकर्माणम् भूतकर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s