Original

संजय उवाच ।महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु ।दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥ १ ॥

Segmented

संजय उवाच महद् भैरवम् आसीत् नः संनिवृत्तेषु पाण्डुषु दृष्ट्वा द्रोणम् छाद्यमानम् तैः भास्करम् इव अम्बुदैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=1,n=s
भैरवम् भैरव pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नः मद् pos=n,g=,c=6,n=p
संनिवृत्तेषु संनिवृत् pos=va,g=m,c=7,n=p,f=part
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
छाद्यमानम् छादय् pos=va,g=m,c=2,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
भास्करम् भास्कर pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदैः अम्बुद pos=n,g=m,c=3,n=p