Original

कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः ।सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ॥ २९ ॥

Segmented

कुमारम् शिति-पादाः तु रुक्म-पत्रैः उरश्छदैः सौचित्तिम् अवहन् युद्धे यन्तुः प्रेष्य-कराः हयाः

Analysis

Word Lemma Parse
कुमारम् कुमार pos=n,g=m,c=2,n=s
शिति शिति pos=a,comp=y
पादाः पाद pos=n,g=m,c=1,n=p
तु तु pos=i
रुक्म रुक्म pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
उरश्छदैः उरश्छद pos=n,g=m,c=3,n=p
सौचित्तिम् सौचित्ति pos=n,g=m,c=2,n=s
अवहन् वह् pos=v,p=3,n=p,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
प्रेष्य प्रेष्य pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p