Original

आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् ।दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ॥ १३ ॥

Segmented

आम-पात्र-निभ-आकाराः पाञ्चाल्यम् अमित-ओजसम् दान्ताः ताम्र-अरुणाः युक्ताः शिखण्डिनम् उदावहन्

Analysis

Word Lemma Parse
आम आम pos=a,comp=y
पात्र पात्र pos=n,comp=y
निभ निभ pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
ताम्र ताम्र pos=a,comp=y
अरुणाः अरुण pos=a,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
उदावहन् उदावह् pos=v,p=3,n=p,l=lan