Original

कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् ।सर्वान्संख्ये शत्रुसंघान्हनिष्ये हतस्तैर्वा वीरलोकं गमिष्ये ॥ २० ॥

Segmented

कर्तास्मि एतत् सत्-पुरुष-आर्य-कर्म त्यक्त्वा प्राणान् अनुयास्यामि भीष्मम् सर्वान् संख्ये शत्रु-सङ्घान् हनिष्ये हतः तैः वा वीर-लोकम् गमिष्ये

Analysis

Word Lemma Parse
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=2,n=s
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
आर्य आर्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
हतः हन् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
वा वा pos=i
वीर वीर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt