Original

तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः ।आहता सहसा भूमिश्चकम्पे च ननाद च ॥ ५० ॥

Segmented

तेषाम् शैल-उपमैः कायैः निपतद्भिः समन्ततः आहता सहसा भूमिः चकम्पे च ननाद च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
शैल शैल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
कायैः काय pos=n,g=m,c=3,n=p
निपतद्भिः निपत् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
आहता आहन् pos=va,g=f,c=1,n=s,f=part
सहसा सहसा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i