Original

अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥ ७ ॥

Segmented

अथ नारायणाः क्रुद्धा विविध-आयुध-पाणयः छादयन्तः शर-व्रातैः परिवव्रुः धनंजयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
नारायणाः नारायण pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
छादयन्तः छादय् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s