Original

सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् ।पृथग्विधान्भूतसंघांश्च विश्वांस्त्वत्संभूतान्विद्म सर्वांस्तथैव ।ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥ ६७ ॥

Segmented

सुर-असुरान् नाग-रक्षः-पिशाचान् नरान् सुपर्णान् अथ गन्धर्व-यक्षान् पृथग्विधान् भूत-सङ्घान् च विश्वांस् त्वद्-सम्भूतान् विद्म सर्वान् तथा एव ऐन्द्रम् याम्यम् वारुणम् वैत्तपाल्यम् मैत्रम् त्वाष्ट्रम् कर्म सौम्यम् च तुभ्यम्

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
नाग नाग pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
पिशाचान् पिशाच pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
सुपर्णान् सुपर्ण pos=n,g=m,c=2,n=p
अथ अथ pos=i
गन्धर्व गन्धर्व pos=n,comp=y
यक्षान् यक्ष pos=n,g=m,c=2,n=p
पृथग्विधान् पृथग्विध pos=a,g=m,c=2,n=p
भूत भूत pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
विश्वांस् विश्व pos=n,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
सम्भूतान् सम्भू pos=va,g=m,c=2,n=p,f=part
विद्म विद् pos=v,p=1,n=p,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=1,n=s
याम्यम् याम्य pos=a,g=n,c=1,n=s
वारुणम् वारुण pos=a,g=n,c=1,n=s
वैत्तपाल्यम् वैत्तपाल्य pos=a,g=n,c=1,n=s
मैत्रम् मैत्र pos=a,g=n,c=1,n=s
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सौम्यम् सौम्य pos=a,g=n,c=1,n=s
pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s