Original

शुभाङ्गदं नागयज्ञोपवीतिं विश्वैर्गणैः शोभितं भूतसंघैः ।एकीभूतं तपसां संनिधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः ॥ ६० ॥

Segmented

शुभ-अङ्गदम् नाग-यज्ञ-उपवीतिम् विश्वैः गणैः शोभितम् भूत-संघैः एकीभूतम् तपसाम् संनिधानम् वयोतिगैः सुष्टुतम् इष्ट-वाग्भिः

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीतिम् उपवीति pos=n,g=m,c=2,n=s
विश्वैः विश्व pos=n,g=m,c=3,n=p
गणैः गण pos=n,g=m,c=3,n=p
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
भूत भूत pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
एकीभूतम् एकीभू pos=va,g=m,c=2,n=s,f=part
तपसाम् तपस् pos=n,g=n,c=6,n=p
संनिधानम् संनिधान pos=n,g=n,c=2,n=s
वयोतिगैः वयोतिग pos=a,g=m,c=3,n=p
सुष्टुतम् सुष्टुत pos=a,g=m,c=2,n=s
इष्ट इष् pos=va,comp=y,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p