Original

तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः ।प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ॥ २३ ॥

Segmented

तैः शरैः द्रोणपुत्रस्य वज्र-वेग-समाहितैः प्रदग्धाः शत्रवः पेतुः अग्नि-दग्धाः इव द्रुमाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
वज्र वज्र pos=n,comp=y
वेग वेग pos=n,comp=y
समाहितैः समाधा pos=va,g=m,c=3,n=p,f=part
प्रदग्धाः प्रदह् pos=va,g=m,c=1,n=p,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
अग्नि अग्नि pos=n,comp=y
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p