Original

यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः ।वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥ १६ ॥

Segmented

यदि युद्धेन जेयाः स्युः इमे कौरव-नन्दनाः वयम् अपि अत्र युध्येम तथा च इमे नर-ऋषभाः

Analysis

Word Lemma Parse
यदि यदि pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
जेयाः जि pos=va,g=m,c=1,n=p,f=krtya
स्युः अस् pos=v,p=3,n=p,l=vidhilin
इमे इदम् pos=n,g=m,c=1,n=p
कौरव कौरव pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
अत्र अत्र pos=i
युध्येम युध् pos=v,p=1,n=p,l=vidhilin
तथा तथा pos=i
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p