Original

ततः समागमो राजन्कुरुपाण्डवसेनयोः ।पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥ ९ ॥

Segmented

ततः समागमो राजन् कुरु-पाण्डव-सेनयोः पुनः एव अभवत् तीव्रः पूर्ण-सागरयोः इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
समागमो समागम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
पुनः पुनर् pos=i
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तीव्रः तीव्र pos=a,g=m,c=1,n=s
पूर्ण पृ pos=va,comp=y,f=part
सागरयोः सागर pos=n,g=m,c=6,n=d
इव इव pos=i