Original

युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ ।द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥ २० ॥

Segmented

युद्धेषु अपि प्रवृत्तानाम् ध्रुवौ जय-पराजयौ द्वयम् एतद् भवेद् राजन् वधः तत्र प्रशस्यते

Analysis

Word Lemma Parse
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अपि अपि pos=i
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
ध्रुवौ ध्रुव pos=a,g=m,c=1,n=d
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d
द्वयम् द्वय pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
वधः वध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat