Original

हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् ।अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ ८३ ॥

Segmented

हत्वा विंशति-साहस्रान् पाञ्चालानाम् रथ-व्रजान् अतिष्ठद् आहवे द्रोणो विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
विंशति विंशति pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part