Original

त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् ।मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ ६६ ॥

Segmented

त्रस्तान् कुन्ती-सुतान् दृष्ट्वा द्रोण-सायक-पीडितान् मतिमाञ् श्रेयसे युक्तः केशवो ऽर्जुनम् अब्रवीत्

Analysis

Word Lemma Parse
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
कुन्ती कुन्ती pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रोण द्रोण pos=n,comp=y
सायक सायक pos=n,comp=y
पीडितान् पीडय् pos=va,g=m,c=2,n=p,f=part
मतिमाञ् मतिमत् pos=a,g=m,c=1,n=s
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
केशवो केशव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan