Original

वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना ।उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ ६२ ॥

Segmented

वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना उदीर्यमाणे द्रोण-अस्त्रे पाण्डवान् भयम् आविशत्

Analysis

Word Lemma Parse
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उदीर्यमाणे उदीरय् pos=va,g=n,c=7,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan