Original

तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः ।निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥ १३४ ॥

Segmented

ताम् अस्य विशिखैः तीक्ष्णैः क्षिप्यमाणाम् महा-रथः निजघान शरैः द्रोणः क्रुद्धः सत्य-पराक्रमः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
क्षिप्यमाणाम् क्षिप् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s