Original

तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् ।श्रुत्वैव तं महाराज वधोपायं महात्मनः ॥ १०० ॥

Segmented

तयोः संवदतोः एवम् भीमसेनो ऽब्रवीद् इदम् श्रुत्वा एव तम् महा-राज वध-उपायम् महात्मनः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s