Original

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।असंभावितरूपः सन्नानृशंस्यं करिष्यसि ॥ ८ ॥

Segmented

अस्मिन् चेद् आगते काले श्रेयो न प्रतिपत्स्यसे असंभावित-रूपः सन्न् आनृशंस्यम् करिष्यसि

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
चेद् चेद् pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt
असंभावित असंभावित pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt