Original

इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ३७ ॥

Segmented

इति उक्त्वा समरे द्रोणो न्यवर्तत यतः परे द्वैधीकृत्य ततः सेनाम् युद्धम् समभवत् तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
समरे समर pos=n,g=n,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
यतः यतस् pos=i
परे पर pos=n,g=m,c=1,n=p
द्वैधीकृत्य द्वैधीकृ pos=vi
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i