Original

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः ।बुबुधे शतपत्राणां वनं महदिवाम्भसि ॥ ४८ ॥

Segmented

बोध्यमानम् तु तत् सैन्यम् राजन् चन्द्रस्य रश्मिभिः बुबुधे शतपत्राणाम् वनम् महद् इव अम्भसि

Analysis

Word Lemma Parse
बोध्यमानम् बोधय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
बुबुधे बुध् pos=v,p=3,n=s,l=lit
शतपत्राणाम् शतपत्त्र pos=n,g=m,c=6,n=p
वनम् वन pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
इव इव pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s