Original

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुरूषितैः ।निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ॥ ३७ ॥

Segmented

गजाः ते पन्नग-आभोगैः हस्तैः भू-रेणु-रूषितैः निद्रा-अन्धाः वसुधाम् चक्रुः घ्राण-निःश्वास-शीतलाम्

Analysis

Word Lemma Parse
गजाः गज pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पन्नग पन्नग pos=n,comp=y
आभोगैः आभोग pos=n,g=m,c=3,n=p
हस्तैः हस्त pos=n,g=m,c=3,n=p
भू भू pos=n,comp=y
रेणु रेणु pos=n,comp=y
रूषितैः रूषित pos=a,g=m,c=3,n=p
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
घ्राण घ्राण pos=n,comp=y
निःश्वास निःश्वास pos=n,comp=y
शीतलाम् शीतल pos=a,g=f,c=2,n=s