Original

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे ।योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः ॥ १९ ॥

Segmented

नाना वाचः विमुञ्चन्तो निद्रा-अन्धाः ते महा-रणे योद्धव्यम् इति तिष्ठन्तो निद्रा-संसक्त-लोचनाः

Analysis

Word Lemma Parse
नाना नाना pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
विमुञ्चन्तो विमुच् pos=va,g=m,c=1,n=p,f=part
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तिष्ठन्तो स्था pos=va,g=m,c=1,n=p,f=part
निद्रा निद्रा pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p