Original

एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः ।स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥ ४८ ॥

Segmented

एवम् उक्त्वा ययौ तूर्णम् त्वरमाणो युधिष्ठिरः स विस्फार्य महत् चापम् शङ्खम् प्रध्माप्य भैरवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रध्माप्य प्रध्मापय् pos=vi
भैरवम् भैरव pos=a,g=m,c=2,n=s