Original

संजय उवाच ।दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥ १९ ॥

Segmented

संजय उवाच दुर्योधनस्य शकुनेः मम दुःशासनस्य च रात्रौ रात्रौ भवति एषा नित्यम् एव समर्थना

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
एषा एतद् pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
समर्थना समर्थन pos=n,g=f,c=1,n=s