Original

ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च ।असंमोहं पूजयन्तोऽस्य संख्ये संपश्यन्तो विजयं राक्षसस्य ॥ ४५ ॥

Segmented

ततो भीताः समुदैक्षन्त कर्णम् राजन् सर्वे सैन्धवा बाह्लिकाः च असंमोहम् पूजयन्तो ऽस्य संख्ये संपश्यन्तो विजयम् राक्षसस्य

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
समुदैक्षन्त समुदीक्ष् pos=v,p=3,n=p,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सैन्धवा सैन्धव pos=n,g=m,c=1,n=p
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
pos=i
असंमोहम् असंमोह pos=n,g=m,c=2,n=s
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
संपश्यन्तो संपश् pos=va,g=m,c=1,n=p,f=part
विजयम् विजय pos=n,g=m,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s