Original

शराहतानां पततां हयानां वज्राहतानां पततां गजानाम् ।शिलाहतानां च महारथानां महान्निनादः पततां बभूव ॥ ३० ॥

Segmented

शर-आहतानाम् पतताम् हयानाम् वज्र-आहतानाम् पतताम् गजानाम् शिला-आहतानाम् च महा-रथानाम् महान् निनादः पतताम् बभूव

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
हयानाम् हय pos=n,g=m,c=6,n=p
वज्र वज्र pos=n,comp=y
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
गजानाम् गज pos=n,g=m,c=6,n=p
शिला शिला pos=n,comp=y
आहतानाम् आहन् pos=va,g=m,c=6,n=p,f=part
pos=i
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
महान् महत् pos=a,g=m,c=1,n=s
निनादः निनाद pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit