Original

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् ।नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥ २२ ॥

Segmented

तथा ते राक्षसाः सर्वे भीमसेनम् उपाद्रवन् नाना प्रहरणाः भीमाः त्वद्-सुतानाम् जय-एषिणः

Analysis

Word Lemma Parse
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan
नाना नाना pos=i
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
भीमाः भीम pos=a,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
सुतानाम् सुत pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p