Original

एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः ।तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥ १३ ॥

Segmented

एवम् उक्तः स राज्ञा तु राक्षसः तीव्र-विक्रमः तथा इति उक्त्वा महा-बाहुः घटोत्कचम् उपाद्रवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तु तु pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan