Original

ते चापि सर्वे प्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च ।हर्षान्विता युयुधुस्तत्र राजन्समन्ततः पाण्डवयोधवीराः ॥ २१ ॥

Segmented

ते च अपि सर्वे प्रवरा नरेन्द्रा महा-बलाः वर्मिणः चर्मिन् च हर्ष-अन्विताः युयुधुः तत्र राजन् समन्ततः पाण्डव-योध-वीराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रवरा प्रवर pos=a,g=m,c=1,n=p
नरेन्द्रा नरेन्द्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
वर्मिणः वर्मिन् pos=a,g=m,c=1,n=p
चर्मिन् चर्मिन् pos=a,g=m,c=1,n=p
pos=i
हर्ष हर्ष pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
युयुधुः युध् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
पाण्डव पाण्डव pos=n,comp=y
योध योध pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p