Original

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।रथिनामृषभं कर्णं धाराभिरिव तोयदः ।शरवृष्टिं च तां कर्णो दूरप्राप्तामशातयत् ॥ ६५ ॥

Segmented

रथ-अक्ष-मात्रैः इषुभिः अभ्यवर्षद् घटोत्कचः रथिनाम् ऋषभम् कर्णम् धाराभिः इव तोयदः शर-वृष्टिम् च ताम् कर्णो दूर-प्राप्ताम् अशातयत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
मात्रैः मात्र pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दूर दूर pos=a,comp=y
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
अशातयत् शातय् pos=v,p=3,n=s,l=lan