Original

गत्वा कर्णरथाभ्याशं विचलत्कुण्डलाननः ।प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशां पते ॥ ६२ ॥

Segmented

गत्वा कर्ण-रथ-अभ्याशम् विचलत्-कुण्डल-आननः प्राह वाक्यम् असंभ्रान्तः सूतपुत्रम् विशाम् पते

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
कर्ण कर्ण pos=n,comp=y
रथ रथ pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
विचलत् विचल् pos=va,comp=y,f=part
कुण्डल कुण्डल pos=n,comp=y
आननः आनन pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s