Original

पुनश्चापि महाकायः संछिन्नः शतधा रणे ।गतसत्त्वो निरुत्साहः पतितः खाद्व्यदृश्यत ।हतं तं मन्यमानाः स्म प्राणदन्कुरुपुंगवाः ॥ ५७ ॥

Segmented

पुनः च अपि महा-कायः संछिन्नः शतधा रणे गतसत्त्वो निरुत्साहः पतितः खाद् व्यदृश्यत हतम् तम् मन्यमानाः स्म प्राणदन् कुरु-पुंगवाः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
संछिन्नः संछिद् pos=va,g=m,c=1,n=s,f=part
शतधा शतधा pos=i
रणे रण pos=n,g=m,c=7,n=s
गतसत्त्वो गतसत्त्व pos=a,g=m,c=1,n=s
निरुत्साहः निरुत्साह pos=a,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
खाद् pos=n,g=n,c=5,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
हतम् हन् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p