Original

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥ ८ ॥

Segmented

तस्य कर्ण-आत्मजः चापम् छित्त्वा केतुम् अपातयत् तम् भ्रातरम् परीप्सन्तो द्रौपदेयाः समभ्ययुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
चापम् चाप pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
केतुम् केतु pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun