Original

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ।पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ॥ ५० ॥

Segmented

स्वानि अनीकानि बीभत्सुः शनकैः अवहारयत् ततो ऽभितुष्टुवुः पार्थम् प्रहृष्टाः पाण्डु-सृञ्जयाः पाञ्चालाः च मनोज्ञाभिः वाग्भिः सूर्यम् इव ऋषयः

Analysis

Word Lemma Parse
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
शनकैः शनकैस् pos=i
अवहारयत् अवहारय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽभितुष्टुवुः अभिष्टु pos=v,p=3,n=p,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
मनोज्ञाभिः मनोज्ञ pos=a,g=f,c=3,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p