Original

लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् ।अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ॥ ९ ॥

Segmented

लब्ध-लक्ष्यः तु राधेयः पाञ्चालानाम् महा-रथान् अभ्यपीडयद् आयस्तः शरैः मेघ इव अचलान्

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्यः लक्ष्य pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अभ्यपीडयद् अभिपीडय् pos=v,p=3,n=s,l=lan
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अचलान् अचल pos=n,g=m,c=2,n=p