Original

संजय उवाच ।एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः ।आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ॥ ३७ ॥

Segmented

संजय उवाच एवम् उक्त्वा महा-बाहुः पार्थम् पुष्कर-लोचनः आजुहाव अथ तद् रक्षः तत् च आसीत् प्रादुः अग्रतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पुष्कर पुष्कर pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रादुः प्रादुर् pos=i
अग्रतः अग्रतस् pos=i