Original

संजय उवाच ।विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः ।क्रोधेन महताविष्टः पुत्रस्तव विशां पते ॥ १ ॥

Segmented

संजय उवाच विद्रुतम् स्व-बलम् दृष्ट्वा वध्यमानम् महात्मभिः क्रोधेन महता आविष्टः पुत्रः ते विशाम् पते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
वध्यमानम् वध् pos=va,g=n,c=2,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s