Original

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते ।कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ॥ १५ ॥

Segmented

शिखण्डिनम् तु समरे द्रोण-प्रेप्सुम् विशाम् पते कृपः शारद्वतो यत्तः प्रत्युद्गच्छत् सु वेगितः

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
प्रत्युद्गच्छत् प्रत्युद्गम् pos=v,p=3,n=s,l=lan
सु सु pos=i
वेगितः वेगित pos=a,g=m,c=1,n=s